विवेकचूडामणि
Śloka 171
170
All
172
Glossary
विवेकचूडामणि
Śloka 171
100%
Commentary — व्याख्या
1
सुषुप्तौ कारणविद्यासद्भावेऽपि बन्धस्याभावात् तत्कार्यमनस एव बन्धकत्वं तदा तस्य लीनत्वात् बन्धाभाव इत्यभिप्रेत्य ।
2
मनसोऽतिरिक्ता अविद्या नास्ति इत्युक्तम् ।
3
हि निश्चितं ।
4
हि यतः भवबन्धहेतुः अविद्या तत्कार्यत्वात् मन एव ।
5
मनसस्तले देहादाभिमान-रूपबन्धात् तदभावे तदभावात् मनो-भवबन्धयोः अन्वयव्यतिरेकौ ।
6
तदेवोपपादयति तस्मिन्विनष्टे विशेषेण निर्वासनं नष्टे सकलं विनष्टम् ।
7
स्पष्टं हि सुषुप्तौ जगदेव नास्तीति ।
8
अस्मिन्विजृम्भते वर्धमाने सकलं विजृम्भते सर्वेऽपि वृद्धिमानोतीत्यर्थः ॥१७१॥
170
All
172
En