विवेकचूडामणि
Śloka 19
Glossary
View Book
Verse
श्लोकः
Expand all
1
आदौ नित्यानित्य-वस्तु-विवेकः परिगण्यते ।
2
इहामुत्र-फलभोग-विरागस्तदनन्तरम् ॥१९॥
3
शमादिषट्क-संपत्तिः मुमुक्षुत्वमिति स्फुटम् ॥
Śloka 18
All Ślokas
Śloka 20
Commentary
व्याख्या
Expand all
1
विवेकादीनां मध्ये पूर्वपूर्वस्य उत्तरोत्तर-हेतुत्वात् क्रमः समाश्रितः ।
2
इदं नित्यं इदमनित्यमिति जानानः किल अनित्यादिर्विरज्येत । अतः नित्या-नित्यवस्तुविवेकः दुःसंपादित्वमिति विवेकस्य वैराग्यहेतुत्वम् ।
3
वैराग्यवत् एव पुरुषस्य अन्तर्बहिः-रिन्द्रिय-निरोधरूप-शान्तिदान्ती ।
4
तत्रापि निरुढान्तःकरणस्यैव बहिरिन्द्रिय-निरोधरूपदमः मनस्संवन्धाभावे इतरेषामिन्द्रियाणां अकिञ्चितकरत्वात् ।
5
तिहि शमैसित दमस्य स्वत-स्सिद्धत्वात् किमिति तस्य साधनकोटिप्रविष्टत्वमिति चेत्, "इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः" इति गीतोक्तरीत्या बाह्येन्द्रियानिरोधाभावे शमस्य दृढत्वाभावात् ।
6
जितेन्द्रियस्यैव उपरमशब्दित-संन्यासः, तस्यैव शीतोष्णादि-दृढदहिष्णुत्वरूपा तितिक्षा, तस्यैव वाह्यक्षेपाभावात् ब्रह्मण्यदर्पयेणाव-स्थान-लक्षण समाधानम्,
7
एतादृशगुण-विशिष्टस्यैव "ब्रह्मैकमेव सत्यमिदं विश्वकार्य-विश्वासरूप-श्रद्धा इति शमादिषट्कमध्येपि पूर्वापरीभावे कारणं सुवचम् ।
8
एतादृशः किल पुरुषधैर्यैः मोक्षादयत्र कामयते, तत्र विलम्बं च न सहत इति तीव्र-मुमुक्षावान् भवितुमर्हति इत्यभिप्रायेण, आदौ नित्यानित्येत्याद्याह ।
9
तदनन्तरं इहामुत्रफलभोगविराग इति च ।
10
तेन विवेकान्तर्यस्य वैराग्ये संचनेन "तदुदित सहितु यो यदनन्तरः" इति न्यायेन विवेक-कार्यत्वे वैराग्ये उक्तप्रायम् ।
11
तदनन्तरमित्ते उत्तराप्त्यनुषज्यते वैराग्यानन्तरं शमादिसंपत्तिः, तदनन्तरं मुमुक्षुत्वमिति ॥१९॥
Śloka 18
All Ślokas
Śloka 20