विवेकचूडामणि
Śloka 182
181
All
183
Glossary
विवेकचूडामणि
Śloka 182
100%
Commentary — व्याख्या
1
तत्वदाशिनः तत्वं द्रष्टुं शीलं येषां ते ।
2
पण्डिताः श्रुतवेदान्ताः पुरुषधौरेयाः ।
3
अतः संसृतिमूल-कारणत्वान्मनसः मन एव अविद्यां प्राहुः
4
अविद्याकार्यत्वात् केवलाविद्यायाः संसृतिहेतुत्वाभावाच्च ।
5
मन एवाविद्येति कथनं युक्तिमिति बोधयितुं प्रेत्युपसर्गेः ।
6
तत्र हेतुः येनैव मनसैव विश्वं सर्वजगत् सर्वे जीवा इति यावत् ।
7
भ्राम्यते अन्यथाग्रहणेन ऊर्ध्वमधश्च नीयते ।
8
तत्र दृष्टान्तः वायुनेवाभ्रमण्डलं, मेघसमुदायः वायुना यथा सविषु दिक्षु भ्राम्यते तथा ॥१८२॥
181
All
183
En