विवेकचूडामणि
Śloka 183
182
All
184
Glossary
विवेकचूडामणि
Śloka 183
100%
Commentary — व्याख्या
1
तत् पूर्वकथितकारणात् रजस्तमोदोषवतः पुंसः अध्यासद्वारा संसृतिहेतुरितरूपात् ।
2
मुमुक्षुणा मोक्षेच्छावता पुरुषेण प्रयत्नेन प्रकृष्टयत्नेन मनःशोधनं मनोगत-रजस्तमोरूप-दोषापनयनं कार्यं विधेयं ।
3
चकारो हेत्वर्थः यत इति ।
4
एतस्मिन् मनसि, विशुद्धे रजस्तमोहीने केवलसत्वप्रधाने,
5
मुक्तिः करफलायते करगतफलवत् सुष्ठु वेद्या भवतीत्यर्थः ॥१८३॥
182
All
184
En