विवेकचूडामणि
Śloka 184
183
All
185
Glossary
विवेकचूडामणि
Śloka 184
100%
Commentary — व्याख्या
1
मोक्षे एकस्मिन् सक्तिः आसक्तिः तीव्रमुमुक्षा तया,
2
विषयेषु देहादिषु रागं सुखजनकत्वभ्रान्त्या आसक्तिं निर्मूल्य अहंतानिरसनेन परित्यज्य,
3
सर्वकर्म निःकामकर्मिणि नित्यनैमित्तिकानि च, संन्यस्य स्वरूपतोऽपि परित्यज्य ।
4
सच्छ्रद्धया सति कालत्रयाबाध्ये ब्रह्मणि या श्रद्धा, सती अचंचला वा याश्रद्धा गुरुवेदान्तवाक्यविश्वासः तया
5
यः पुमान् श्रवणादिनिष्ठः श्रवणं आदि यतोः मनननिदिध्यासनयोः तेषु श्रवणादिषु निष्ठा नितरां स्थितिः यस्य सः
6
सः पुरुषः बुद्धेः रजस्स्वभावं रजसः स्वभावः विक्षेपः तं धुनोति चालयति नितरां नाशयतीति यावत् ।
7
देहादिषु रागसत्वे कर्म करोति कर्मसत्वे विक्षेपः ।
8
रागिनर्मूलनेन सर्वं कर्मत्यक्त्वा श्रवणादिभिः अन्तिष्ठस्य श्रद्धालोः बुद्धिविक्षेपस्य नैवावसरः ।
9
अतो विरक्तेन संन्यासिना श्रवणादिकं श्रद्धया बुद्धिदोषनिवृत्तये कार्यमित्युक्तं भवति ॥१८४॥
183
All
185
En