विवेकचूडामणि
Śloka 185
Glossary
View Book
Verse
श्लोकः
Expand all
1
मनोमयो नापि भवेत्परात्मा ह्याद्यन्तवत्वात् परिणामिभावात् ।
2
दुःखात्मकत्वात् विषयत्वहेतोः द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८५॥
Śloka 184
All Ślokas
Śloka 186
Commentary
व्याख्या
Expand all
1
मनोमयोऽपि परात्मा परमात्मा न भवेत्यन्वयः ।
2
तत्र हेतवः संगृह्यन्ते आद्यन्तवत्वात् सुषुप्तौ लयात् जाग्रदादौ उत्पत्तेश्च आद्यन्तशून्यः आत्मा न भवति
3
एवं परिणामिभावात् परिणामिनः भावः परिणामिभावः परिणामिभावात् कामसंकल्पाद्यात्मना परिणाममात्वात् अविकारी आत्मा न भवति ।
4
दुःखं आत्मस्वरूपं यस्य दुःखात्मकं तस्य भावः तत्वं ।
5
अत एव निरुध्यते शोध्यते च ।
6
अध्यासद्वारा सर्वदुःखहेतुत्वं उपपादितम् ।
7
अतः आनन्दरूपः आत्मा न भवति ।
8
विषयत्वमेव हेतुः तस्मात् "अन्यत्र मना अभवं नाद्राक्षम् अन्यत्रमना अभवं नाशृणवम्" इति श्रुतेः ।
9
साक्षिणा विषयीक्रियत इति विषयत्वरूपहेतोश्च सर्वसाक्षी आत्मा न भवति ।
10
तदिदमाह द्रष्टाहीत्यादिना । हि यतः द्रष्टा पश्यतीति द्रष्टा ज्ञाता यः सः
11
दृश्यात्मतया विषयात्मतया न दृष्टः न लोकसिद्धः इत्यर्थः ।
12
अतः सर्वदा मनसिस्थितिकाले तदभावे च साक्षिणा सद्भावाभावयोः ज्ञायमानतया कर्तुकर्मविरोधात् स्वद्रष्टृस्वस्मिन् विरुद्धत्वाच्च
13
दृश्यं मनः न द्रष्टृस्वरूप आत्मा इत्यनात्मत्वं तस्य सिद्धम् ॥१८५॥
Śloka 184
All Ślokas
Śloka 186