विवेकचूडामणि
Śloka 186
Glossary
View Book
Verse
श्लोकः
Expand all
1
बुद्धिर्बुद्धीन्द्रियैः साथँ सवृत्तिः कर्मलक्षणः ।
2
विज्ञानमयकोशस्स्यात् पुंसः संसारकारणम् ॥१८६॥
Śloka 185
All Ślokas
Śloka 187
Commentary
व्याख्या
Expand all
1
बुद्धीन्द्रियैः पंचभिः ज्ञानेन्द्रियैः श्रोत्रादिभिः साथँ सह ।
2
सवृत्तिः वृत्त्या निश्चयात्मिकया सह वर्तत इति सवृत्तिः बुद्धिः
3
कर्तृलक्षणः कर्तुं लक्षणं ज्ञानेच्छाकृतिमत्वं यस्य सः कर्तृलक्षणः ।
4
विज्ञानमयकोशः स्यात्
5
इदानीका पुंसः आत्मनः संसारकारणं "स समानसस्नभू लोकावनुसंचरति, सखी स्वप्नो भूत्वा ध्यायतीव लेलायतीव" इत्यादिश्रुतिभिः
6
एकमेवान्तःकरणं संशयात्मकवृत्तिमत् मन इति, निश्चयात्मकवृत्तिमत् बुद्धिरिति कथ्यते ।
7
तत्र मनसः करणत्वं बुद्धेः कर्तृत्वं निश्चयं हि करोति ।
8
अतः पूर्वापरीभावावत्वेन मनोबुद्ध्योरन्तरं बहिरन्तरं भवति इति आत्यत्मक-विज्ञानमयस्य पार्थक्यकथनं
9
नो चेत् पंचानां ज्ञानेन्द्रियाणां उभयत्राविशिष्टत्वात् भेदानापत्तेरिति बोध्यम् ।
10
"तस्माद एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः" इति श्रुतेश्च । तत्राप्ययमेवाभिप्रायः ॥१८६॥
Śloka 185
All Ślokas
Śloka 187