विवेकचूडामणि
Śloka 192
191
All
193
Glossary
विवेकचूडामणि
Śloka 192
100%
Commentary — व्याख्या
1
मुषात्मनः मिथ्यास्वरूपत्याः बुद्धेः तादात्मदोषेण परं केवलं न तु स्वतः इत्यर्थः ।
2
स्वयं परिच्छेदं अल्पत्वं उपेत्य प्राप्य स्वयं सर्वात्मकसन्नपि
3
"इदं सर्वं यदयमात्मा" "सर्वं खल्विदं ब्रह्म" इत्यादिश्रुतेः
4
अकुशलमतिः मृदः पंचमी घटानिव
5
यथा मृदुपादानकतया तदव्यतिरिक्तान् घटान् पृथक्षयति भिन्नत्वेन वीक्षते
6
तथा सर्वोपादानतया स्वव्यतिरेकेण स्वयं स्वयः पृथक्त्वेन स्वतः भिन्नेन वीक्षते
7
अहं सः इदं त्वं इत्यादिभेद-बुद्धिमान्भवतीत्यर्थः ॥१९२॥
191
All
193
En