विवेकचूडामणि
Śloka 198
197
All
199
Glossary
विवेकचूडामणि
Śloka 198
100%
Commentary — व्याख्या
1
द्रष्टुः साक्षिणः निर्गुणस्य केनापि धर्मेण रहितस्य अक्रियस्य निष्क्रियस्य विकारशून्यस्य
2
प्रत्यग्बोधानन्दरूपस्य सर्वान्तरः यो बोधः सः प्रत्यग्बोधः सचासावानन्दश्च प्रत्यग्बोधानन्दः स एव रूपं यस्य
3
स्वस्य स्वस्य आत्मन बुद्धेः भ्रान्त्या तादात्म्याभि-मानेन प्राप्तः कल्पितः जीवभावः न सत्यः अवाध्यः न भवति ।
4
स्वरूपविषयसाक्षात्कारे भ्रान्ते नाशेन बाध्यत्वात् ।
5
तदेवाह मोहापाये श्रुत्याचार्योपदेशजनित-तत्वसाक्षात्कारेण अज्ञाननाशे तज्जनितभ्रान्ते-रभावात्
6
तद्भावे मोहस्य दूरपलायितत्वात् तस्य अपाये अवस्तु कल्पनाविषयविधर्मेः कल्पनाविषयकल्पनेन नास्तित्वस्य स्वभावात्
7
अयमेव स्वभाव अरोपितानां वस्तूनां भ्रान्त्यभावे पूर्वबदप्रतीयमानत्वम् इत्यर्थः ॥१९८॥
197
All
199
En