विवेकचूडामणि
Śloka 199
Glossary
View Book
Verse
श्लोकः
Expand all
1
यावद्भ्रान्तिस्तावदेवास्य सत्ता
2
मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् ।
3
रज्वां सर्पो भ्रान्तिकालीन एव
4
भ्रान्तेर्नाशे नैव सर्पोस्ति तद्वत् ॥१९९॥
Śloka 198
All Ślokas
Śloka 200
Commentary
व्याख्या
Expand all
1
कार्यस्य मिथ्यात्वं वक्तुं कारणं विशिनष्टि मिथ्येति ।
2
मिथ्याज्ञानोज्जृम्भितस्य मिथ्याभूतं अधिष्ठानाध्यासाकारनिर्वचनीयं यदज्ञानं तस्माद् उज्जृम्भितस्य संजनितस्य
3
अस्य अवस्तुनः प्रमादात् अधिष्ठानाव्याप्तरोध्यायात् यावद्भ्रान्तिस्तावदेव अस्य सत्ता प्रतीयमानत्वं ।
4
तत्र दृष्टान्तः रज्वां सर्पः रज्जुज्ञानात् रज्जुसाक्षात्कार-वाध्यात् प्रमादात् पुरोव्यक्तो
5
नायं सर्प इतिविवेकाभावात् उज्जृम्भते भ्रान्तिकालीन एव यावत्पर्यन्तं अयं सर्प इतिभ्रान्तिः तावदेव अस्तित्वेन प्रतीयते ।
6
नायं सर्पः किंतु रज्जुरितिविशेषदर्शने भ्रान्ते अयं सर्पेत्याकाशयिकाया नाश संभवति
7
तद्वत् अहं ब्रह्मास्मीति साक्षात्कार-पर्यन्तं मूलाज्ञानजनित-प्रमादात् संसारित्वभ्रान्तिः
8
वस्तुतः संसारः कदापि नास्त्येव । रज्वां सर्प इव पूर्वं भ्रान्त्या प्रतीयते स्म ।
9
जाते च ज्ञाने यथार्थं न प्रतीतिरपि तस्येति केवलं ब्रह्मात्मवबिष्यते स्वरूपसाक्षात्कारस्य अज्ञानतकार्य-सकलनाशकत्वात्
10
"अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः" इतिप्रमाणात् ॥१९९॥
Śloka 198
All Ślokas
Śloka 200