विवेकचूडामणि
Śloka 200
Glossary
View Book
Verse
श्लोकः
Expand all
1
अनादिकत्वमविद्यायाः कार्यस्यापि तथेष्यते ।
2
उत्पन्नायां तु विद्यायां आविच्चकमनाद्यपि ॥२००॥
Śloka 199
All Ślokas
Śloka 201
Commentary
व्याख्या
Expand all
1
एतावतापि "तदुपाधेरनादित्वात् नानादेनाश इष्यते" इत्यस्य स्पष्टमुत्तरमलभमानमिव शिष्यं ज्ञात्वा तदेवानुच्य समाधाति श्रीगुरुः सार्धश्लोकद्वयेन ।
2
यदुक्तं त्वया उपाधेरनादित्वमिति तत्तर्थैव अविद्यायाः कार्यस्यापि विज्ञानमयकोशस्य तथा अविद्याया इव अनादित्वं इष्यते ।
3
अविद्यायाः एकरूपत्वात् विचित्रसृष्टे विचित्रोपाधिनिर्मानत्वात् सर्वस्मस्य परम-कृपालोः ईश्वरस्य विचित्रकामश्रिय-बुद्धिरूपाध्यपेक्षायाः आदश्यकत्वात्
4
बुद्धेरपि तत्कारणभूताया अनादित्वकामाणप्यंगीकर्तव्यं इतिभावः ।
5
इदानीं तत्र निवृत्तिमाह विद्यायामिति
6
उपनिषदां अधिष्ठान-साक्षात्कारोरूपायां प्रमायां उत्पन्नायां सत्यामिति शेषः ।
7
तुशब्दः पक्षं व्यावर्तयति अनादेनाशि नास्तीतिरूपम् ।
8
आविद्यकं अविद्याप्रयोज्यम् । अनाद्यपि सुष्टादिव्यवहारसिद्धार्थं अनादित्वेनांगीकृतमपि प्रबोधे निद्रां तस्य निवृत्तिमाह विनश्यति ।
Śloka 199
All Ślokas
Śloka 201