विवेकचूडामणि
Śloka 201
Glossary
View Book
Verse
श्लोकः
Expand all
1
प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।
2
अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुट ।
3
अनादेरपि विध्वंसः प्रागभावस्य दीक्षितः ॥२०१॥
Śloka 200
All Ślokas
Śloka 202
Commentary
व्याख्या
Expand all
1
न केवलं स्वयमेव स्वस्य मूलभूता याविद्या तया सह मूलभूतिन्द्रया साकं स्वाणिकवस्तु-जातिमेव जागरे स्वप्नवत् विनश्यति ।
2
तेजस्तमसोरिव विद्याविद्ययोरेव साक्षाद्विरोधः तथा निद्राजागरयोः ।
3
अविद्यायां विद्यया नाशितायां "तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः" "यत्र त्वस्य सर्वमात्मैवाभूत् तान्यत्वेन पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा"
4
इत्यादिश्रुत्या तादृष्भूमिकाया विद्यया संसारहेत्वविद्यायाः समूलकाषं कषितत्वात्
5
मूलच्छेदे बृक्षस्येव अविद्याकार्यस्य बुध्यादिर्विनाश एवेति
6
अनाद्यपीदं नो नित्यं अनाद्यपीदं अविद्या तत्कार्यं च अनादि इति स्वीकृत्य अप्रागभाव इव स्फुटम् ।
7
अनादेरपि विध्वंसः प्रागभावस्य दीक्षितः
8
आदिरहितमपि सकलप्रागभाव उत्पत्तिर्नश्यति
9
अत अनादेरपि नाशोस्ति इत्येव परमरीत्या दृष्टान्तमाह अनाद्यपीति
10
इदं अविद्या तत्कार्यं च अनादि इति प्रागभाविनो नास्य नित्यत्वमिति न प्रागभावस्य आरम्भः इदमादितः वक्तुमशक्यत्वात्
11
अयं देहेन्द्रियाद्यभिमितस्वभावोपि स्वभागभावकालत्व-व्यापक-स्वसजातीय-कत्वरूपानादित्वान्वान् भवति ।
12
नष्टे तस्मिन् तत्कार्यं ॥२०१॥
Śloka 200
All Ślokas
Śloka 202