विवेकचूडामणि
Śloka 202
Glossary
View Book
Verse
श्लोकः
Expand all
1
यद्बुध्युपाधिसंबन्धात् परिकल्पितमात्मनि ।
2
जीवत्वं न ततोन्यत्तु स्वरूपेण विलक्षणम् ॥२०२॥
Śloka 201
All Ślokas
Śloka 203
Commentary
व्याख्या
Expand all
1
आत्मनि परमात्मनि बुद्ध्युपाधिसंबन्धात् बुद्धिरेवोपाधिः बुद्ध्युपाधिः तस्य संबन्धः आज्ञानिकतादात्म्यं तस्मात् परिकल्पितं यत् जीवत्वं मिथ्या-भूतं
2
ततः अन्यत् सत्यभूतं स्वरूपेण असंसारितादिरूपेण विलक्षणं भिन्न-न्त्वं नैवेत्यर्थः ॥
3
भ्रमेणाप्यथा वास्तु जीवभावः परात्मनः इति शिष्येणोक्तत्वात्
4
अन्यथावास्तु इति वास्तविकं जीवत्वं यथा सुधाया हृदयारश्च योगे प्रत्यभिप्रेत्य प्रश्नस्य ऋतत्वात्
5
तमिभ्राण्यं निरसितुं आत्मनि बुद्ध्युपाधिसंबन्धवशात् यत्परिकल्पितं जीवत्वं तत्रिणा स्वरूपेण विलक्षणं ततोन्यन्नास्तीत्युक्तं श्रीगुरुणा ॥२०२॥
Śloka 201
All Ślokas
Śloka 203