विवेकचूडामणि
Śloka 203
Glossary
View Book
Verse
श्लोकः
Expand all
1
संबन्धः स्वात्मनो बुध्या मिथ्याज्ञानपुरस्सरः ।
2
विनिवृत्तिर्भवेतस्य सम्यग्ज्ञानेन नान्यथा ॥२०३॥
Śloka 202
All Ślokas
Śloka 204
Commentary
व्याख्या
Expand all
1
"असंगोह्यं पुरुषः" इतिश्रुत्या अवस्तुभूत एवसंबन्धः बुध्या सह तस्य वक्तव्य इत्याह । संबन्ध इति ।
2
स्वात्मनः निरवयवतया संयोगादेवैकं-मशक्यत्वात्
3
संयोगस्थले परस्पर्शमर्थेन्यः परस्परस्मिन् प्रतीत्याभावाच्च
4
अयोन्होः संयोग-संभवेपि अयो दहि वह्निर्दिभिः इति व्यवहारस्य परस्पराध्यासैनेव
5
बुध्यात्मनः कर्तृत्वैचनत्याविग्रहमाणां अन्योन्याध्यासमूलकत्वैनेव वक्तव्यतया
6
धर्मितादात्म्याध्यासः धर्माणां-मध्यासे कारणिमिथ्याधियासकतादात्म्यमेव मिथ्याभूतज्ञानमूलकं बुध्या सकं संबन्ध इति भावः ।
7
तस्य अज्ञानमूलकस्य संबन्धस्य सम्यग्ज्ञानेन विनिवृत्तिर्भवेत्
8
रज्जुसर्पदात्यस्सर्पदात्व-वाध्यात् प्रयाणकान्तरं नास्तीत्यर्थः ।
9
मिथ्याज्ञानपुरस्सर इत्यत्र मिथ्या च तद्ज्ञानं च मिथ्याज्ञानं तलुरस्सरं पूर्वभावि यस्य इति विग्रहे मिथ्याज्ञानमूलकत्वं लभ्यते संबन्धस्य ।
10
मिथ्याज्ञानपदेन भ्रम-परपर्यायस्य अध्यासस्य परिग्रहे सः पुरस्सरः पूर्वं घटकः यत्र इत्यर्थेन आध्यासिक-तादात्मिक-रूपसंबन्धे पूर्वमध्यासस्य घटकत्वात् संबन्धे तद्विशेषणं योजनीयम् ।
11
अर्थद्वयमपि सुवचम् ॥२०३॥
Śloka 202
All Ślokas
Śloka 204