विवेकचूडामणि
Śloka 204
Glossary
View Book
Verse
श्लोकः
1
ब्रह्मात्मैकत्व-विज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम् ॥२०४॥
Śloka 203
All Ślokas
Śloka 205
Commentary
व्याख्या
Expand all
1
भ्रमप्रमादादि-दोषदूषितैः पुरुषैः इदमेव सम्यज्ञानमिति ज्ञातुमशक्यत्वात् निदर्दिष्ट्यनुसारेण सम्यज्ञानं दर्शयति । ब्रह्मेति ।
2
ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरेकत्वं अभेदाभावः तस्य विज्ञानं अनुभवः सम्यग्ज्ञानं श्रुतेर्मतम्
3
"तत्त्वमसि" "अहं ब्रह्मास्मि" "अयमात्मा ब्रह्म" "प्रज्ञानं ब्रह्म"
4
"स एतमेव पुरुषं ब्रह्म तत्ममपश्यत्" "स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः ।"
5
"एष त आत्मा अन्तर्यमुत:" "एष त आत्मा सर्वान्तरः नान्योतोस्ति द्रष्टा नान्योतोस्तिश्रोता नान्योतोस्ति मन्ता नान्योतोस्ति विज्ञाता
6
सैव महानज विज्ञानमयः प्राणेषु हृदयस्स्फुरन् जोयतिः पुरुषः" इत्यादिश्रुतिभ्यः जीवब्रह्म-भेदनिराकरणात् ॥२०४॥
Śloka 203
All Ślokas
Śloka 205