विवेकचूडामणि
Śloka 205
204
All
206
Glossary
विवेकचूडामणि
Śloka 205
100%
Commentary — व्याख्या
1
तत् सम्यग्विज्ञानं आत्मानात्मनोः आत्मा च अनात्मा च आत्यैकवचनं आत्मानात्मानौ तयोरात्मानात्मनोः सम्यक् विवेकेन निरीक्षीरवत् विभेदग्रहणैनेव सिध्यति ।
2
भेदग्रहे अध्यासव्यापकस्य भेदग्रहस्य असंभवात्
3
तदभावे भ्रमरूपस्य अध्यासस्य व्याप्यस्य अभावात्
4
तदभावे विक्षेपशून्यं मनः बहिर्मुखत्वशून्यं सत्
5
श्रवणमननिदिध्यासनैः सर्वान्तरं ब्रह्म साक्षात्करोतीति भावः ।
6
ततः प्रत्यगात्म-सदात्मनोः असन् मिथ्याभूत आत्मा असदात्मा
7
प्रत्यक्षं सर्वान्तरः आत्मा परमात्मा प्रत्यगात्मा च असदात्मा च प्रत्यगात्मासदात्मानौ तयोः
8
विवेकः श्रुत्याचार्योदितयुक्तया पृथकत्वं ज्ञानानुकूलव्यापारः मननरूपः कर्तव्यः ॥२०५॥
204
All
206
En