विवेकचूडामणि
Śloka 206
Glossary
View Book
Verse
श्लोकः
Expand all
1
जलं पंकवदस्पष्टं पंकापाये जलं स्फुटम् ।
2
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः ॥२०६॥
Śloka 205
All Ślokas
Śloka 207
Commentary
व्याख्या
Expand all
1
तथाकृते तस्य स्फुटभानं सदृष्टान्तमाह । जलमिति ।
2
पंकमस्तीति पंकवत् पंकिलं जलं अस्पष्टं विज्ञानीयेन पाथिवेन पंकेन मिश्रितत्वात् ।
3
पंकापाये पंकस्यापाये नत उद्धृध्यापनयने स्यच इतरामिश्रं शुद्धं यथा भाति
4
तथा आत्मापि परमात्मापि दोषाभावे स्फुटप्रभः
5
परमात्मपि दोषाभावे स्फुट प्रभा प्रकाशः यस्य सः स्फुटप्रभः "सलिल एको द्रष्टा" इत्यादिश्रुनेः
6
निर्मलजलवत् अनात्म-विषयकतया भासत इत्यर्थः ॥२०६॥
Śloka 205
All Ślokas
Śloka 207