विवेकचूडामणि
Śloka 207
Glossary
View Book
Verse
श्लोकः
Expand all
1
असन्निवृत्तौ तु सदात्मनः स्फुटप्रतीतिरेतस्य भवेत्प्रतीचः ।
2
ततो निरासः करणीय एवासदात्मनः साध्वहमादिवस्तुनः ॥२०७॥
Śloka 206
All Ślokas
Śloka 208
Commentary
व्याख्या
Expand all
1
यतः एतस्य समीपतरवतिनः प्रतीचः सर्वान्तरस्य सदात्मनः काल-त्रयेव्यावाध्यस्य स्फुटप्रतीतिः
2
इतरामिश्रणेन भासमानात् असन्निवृत्तौ असतां अब्रह्मयादीनां अनात्मनां निवृत्तौ तु निवृत्तावेव भवेत् नतु तेषामपि प्रतीयमानत्वे ।
3
ततः तस्मात् कारणात् असदात्मनः असन् मिथ्याआत्मा स्वरूपं यस्य सः असदात्मा तस्य
4
अहमादिवस्तुनः अहंकारः आदिः यस्य तद् तथा तस्तु अहमादिवस्तु तस्य अहंकारादेहान्तस्य
5
आत्मत्वेन भ्रमविषयतया स्वरूपावरकस्य
6
साधु यथा इतः परं अहंतास्पदतया न प्रतीयते तथा निरासः प्रतिकोशं नायमात्मेति दुढतमविवेचनेन निरासः बाधः करणीय एव ।
7
उक्तं हि पूर्वं "पंचानामपि कोशानां अपवादे विभभाया शुद्धः । नित्यानन्दैकरसः परः स्वयंज्योतिः" इति ।
8
सर्वथा मुच्यतामयं जनः इति हस्तप्रकारैः उपदिशन् करुणानिधिः श्रीगुरुः ।
9
तत्र शैलालावूतजलेन दृष्टान्ततया कथितः । अत्र विजातीयपंकमिश्रं तत् सर्वप्रकारैः अनात्मभेदस्य प्रतीचि सिध्यर्थम् ॥२०७॥
Śloka 206
All Ślokas
Śloka 208