विवेकचूडामणि
Śloka 209
Glossary
View Book
Verse
श्लोकः
Expand all
1
आनन्दप्रतिबिम्ब-चुम्बिततनुः वृत्तिस्तमोजृम्भिता
2
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः ।
3
पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं
4
भूतानन्दित यत्र साधु तनुभून्मात्रः प्रयत्नं विना ॥२०९॥
Śloka 208
All Ślokas
Śloka 210
Commentary
व्याख्या
Expand all
1
इदानीं आनन्दमयकोशं निरूपयति । आनन्देति ।
2
आनन्दस्य परमात्मस्वरूपानन्दस्य प्रतिबिम्बः प्रतिफलनं तेन चुम्बिता व्याप्ता तनुः शरीरं स्वरूपं यस्याः वृत्तेः सा आनन्दप्रतिबिम्ब-चुम्बिततनुः
3
तमोजृम्भिता तमसा अविद्या जृम्भिता जनिता अविद्यापरिणामरूपा वृत्तिः आनन्दमयकोशः स्यात् ।
4
स्फुटतया तं बुद्धावारोहयति प्रियादिगुणकः प्रमोद दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा" इतिश्रुत्या
5
इष्टवस्तु-दर्शन-लाभ-भोगजन्य-सुखविशेषावयवकः प्रियादि गुणः अवयव यस्य स इति विग्रहः ।
6
तस्य कदाचित्त्वमाह स्वेष्टार्थ-स्वेष्टः शास्त्रार्थश्च स चासावर्थश्च स्वेष्टार्थः पुत्रमित्रादिः शब्दादिर्वा
7
तस्य लाभे लाभ इत्युपलक्षणं दर्शन-भोगयोः । तदा उदयः उत्पत्तिः यस्य सः कोशः स्वेष्टार्थलाभोदयः ।
8
कृतिनां धीमतां पुण्यस्य प्राकृतस्य फलोन्मुखस्य अनुभवे फलानुभवकाले स्वयमानन्दरूपः भूत्वा
9
यदा आनन्दरूपः भूत्वा साधु नन्दति तदा आनन्दमयकोशेन योगः अवगतव्यः इति भावः ।
10
बक्ष्यति च "देहाप्राणेन्द्रियमनो-बुद्धादिभिर्वपाविभिः" यत्रैद्वैतेरस्मा-योगिनां तत्-द्वावावशात् सुखाकाराः जाग्रत्स्वप्नकालिकायाः पुण्यजन्यत्वात्
11
विकारसंघात-समाहितत्वात् प्रियादिगुणक इत्यनेन "तस्य प्रियमेव शिरः" इत्यादिश्रुत्या
12
दर्शन-लाभभोग-जन्य-सुखरूपावयव-समुदायसंजनितत्वात्
13
पुण्यवशात् इष्टार्यंदर्शने लाभे च तमोमिश्रसतूद्वे प्रयमाना वृत्तिः सुखाकारा अहं सुखीतिरूपा
14
एवं भोगे "कोयोस्ति सद्दृशोमया यक्षे दास्यामि मोदिष्ये" इत्यादिरूपा उत्क्रोश्यमाना तस्याः पुण्यष्टविषयादिविकारजन्यत्वादित वा अर्थः ॥२०९॥
Śloka 208
All Ślokas
Śloka 210