विवेकचूडामणि
Śloka 224
223
All
225
Glossary
विवेकचूडामणि
Śloka 224
100%
Commentary — व्याख्या
1
विशोकः निर्दुःखः अत एवानन्दघनः आनन्द एवघनः मूर्तिः यस्य सः इत्यर्थः।
2
विपश्चित् सर्वज्ञ इत्यर्थः सर्वात्मकब्रह्मवित्त्वात्।
3
स्वयं कुतश्चिन्न बिभेति द्वितीयाभावात्।
4
अतः मुमुक्षोः नित्यनिरतिशय-निरामयस्वयंप्रकाश-मुखरूपमोक्षेच्छाविशिष्टस्य स्वतत्त्वावगमं स्वयाथात्मावबोधं विना भवबन्धमुक्तेः पन्थाः अन्यः कश्चिन्नास्तीत्यन्वयः ॥२२४॥
223
All
225
En