विवेकचूडामणि
Śloka 234
233
All
235
Glossary
विवेकचूडामणि
Śloka 234
100%
Commentary — व्याख्या
1
एतत् जगत् परिदृश्यमानं विश्वं यदि सत्यं अकल्पितं स्यात्
2
आत्मनो नंतत्वहानिः अन्योन्याभावाप्रतियोगित्वरूप-वस्तुपरिच्छेदशून्यत्वं न स्यात् अकल्पितेन जगता वस्तुभूतेन परिच्छिद्यमानत्वात् ।
3
हीयतामनन्तत्वमिति चेत् निगमाप्रमाणता स्यात् "सत्यं ज्ञानमनंतं ब्रह्मोति" वेदस्य बाधितार्थ-बोधकता स्यात् ।
4
इष्टापत्तिरित्येवेत् ईशितुरिपि परमात्मस्य सर्वेश्वरस्य असत्यवादित्वं अयथार्थवक्तृत्वं स्यात्
5
तदपि भवति चेत् भवतु महात्मनां
6
अत एवंकारयोरपि देशेन परिच्छिन्न-पञ्चकोशात्मबुद्धिं त्यक्त्वा कृतब्रह्मसाक्षात्करतया अखण्डाकारवृत्तिमदन्तःकरणानां वा तेषां
7
नैतत्त्रयं साधु हितं मोमनस्करं सम्मतमित्यर्थः ।
8
स्वानुभविरोधात् ॥२३४॥
233
All
235
En