विवेकचूडामणि
Śloka 235
Glossary
View Book
Verse
श्लोकः
Expand all
1
ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः ।
2
न च मत्स्थानि भूतानीत्येवमेव व्यचीकथत् ॥२३५॥
Śloka 234
All Ślokas
Śloka 236
Commentary
व्याख्या
Expand all
1
अज्ञानाभावेन भ्रमादिदोषशून्यः वस्तुयाथात्म्यज्ञानवानीश्वरः
2
"मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः । न च मत्स्थानि भूतानि पश्यमे योगमैश्वरम्" इत्येकिसमलवाक्ये
3
मत्स्थानि सर्वभूतानि न चाहं मत्स्थानीति प्रतियोग्यभावयोः एक विरोधशंकायां
4
पश्य मे योगमैश्वरम् इति ईश्वरस्य मम अघटितघटनोपायरूपं योगं मायामिति प्रयेति मायिकत्वमुक्तवान् ।
5
मत्स्थानि न च मत्स्थानीति पदाभ्यां अयमर्थः उक्तः ।
6
स्वाश्रयत्वेनाभिमत-याविश्रिष्टाभावप्रतियोगित्वं स्वप्रकारकर्धी-विशेषतयाव्याकातन्ताभाव-प्रतियोगित्वपर्यवसितं प्रतिपन्नोपाधि इत्यादेरर्थः ।
7
तथा च मत्स्थानीत्यत्र ईश्वरः भूतानाम् आश्रय इति ज्ञातः ।
8
न च मत्स्थानीत्येनेन भूतानि तन्निष्ठां-न्यतमां ऐश्वरं यदि भूतानां मन्यते प्रतिपाद्यते
9
तथाच "सर्वभावाः स्वभाव-त्वेन सम्मते: प्रतियोगकभत्यन्ताभावं प्रति मृषातमा" इति चित्सुखाचार्य-वचनेन पूर्वोक्तमिथ्यात्वं जगति सिद्धम् ।
10
"मया ततमिदं सर्वं जगदव्यक्तमूर्तिना" इति सर्वाधिष्ठानतया इदं सर्वं जगद्व्याप्तं
11
नतु तदिष्ठानकत्वं मम "स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि, यदि वा न महिम्नि" इति निराधारत्वस्य कथितत्वात् ।
12
अतः जगदिष्ठानकत्वभ्रमं निराकरोति "न चाहं तेष्ववस्थितः" इति ।
13
भूमेन व्याप्तं गृहीत्वादौ गृहाधिकरणकत्वं भूमे प्रतीयते तद्विदं मया ततमित्यादिना ज्ञेयमिति ।
14
तथाच नाधिष्ठानाद् भिन्नतारोपितस्येति ब्रह्माधिष्ठानकं तत्रारोपितं तद्व्यतिरेकेण नास्तीति मिथ्येत्यव्यचीकथत् अवोचित्यर्थः ॥२३५॥
Śloka 234
All Ślokas
Śloka 236