विवेकचूडामणि
Śloka 245
244
All
246
Glossary
विवेकचूडामणि
Śloka 245
100%
Commentary — व्याख्या
1
तयोर्वाच्ययोः अयं विरोधः ऐक्यायोग्यत्वरूपः उपाधिना कल्पितः न वास्तवः स्वाभाविकः
2
किंचित् कः उपाधिरिति चेदाह उपाधिरेषः इति ।
3
तत्र तत्पदार्थस्य उपाधिम् ईशस्य माया ।
4
तत्स्वरूपमाह महदादिकारणं महत्वाहंकार-पञ्चतन्मात्रादिसकलजगत्कारणं माया ईश्वरस्य उपाधिः ।
5
जीवस्य त्वंपदार्थस्य कार्यमुपाधिः किं तदिति हेतु शृणु पंच कोशाः
6
"कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः" इति श्रुतेः ॥२४५॥
244
All
246
En