विवेकचूडामणि
Śloka 246
245
All
247
Glossary
विवेकचूडामणि
Śloka 246
100%
Commentary — व्याख्या
1
जीवपरयोः एतावुपाधी माया पञ्चकोशाश्च ।
2
"नात्र काचन भिदास्ति" "नेह नानास्ति किंचन" "असंगोह्ययं पुरुषः" "असंगो निह सज्जते" इत्यादिश्रुतिभिः तत्त्वंपदार्थशोधिताभिः
3
तयोरुपाध्योः सम्यङ्निरासे न परो न जीवः केवलचिन्मात्ररूपत्वात् भेदकाभावात् ।
4
तत्र दृष्टान्तमाह नरेन्द्रस्य राज्यमुपाधिः खेटकः आयुधविशेषः भटस्य उपाधिः भेदकधर्म: ।
5
तयोरपोहे अभावे न भटो न राजा, स्पष्टम् ॥२४६॥
245
All
247
En