विवेकचूडामणि
Śloka 247
246
All
248
Glossary
विवेकचूडामणि
Śloka 247
100%
Commentary — व्याख्या
1
"अथात आदेशो नेति नेति" इतिश्रुतिः स्वयं ब्रह्मणि कल्पितं द्वयं द्वैतं वस्तु निषेधति ।
2
इति शब्दस्य इदमित्यर्थः ।
3
वीप्सा सकलदृश्यवर्गनिषेधार्थी ।
4
इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधिष्ठान-व्यतिरेकेण नास्ति स्वतः स्फुतिगोचरम् ।
5
एवं श्रुत्यैव साक्षिनिषिध्य-मानत्वात् सकलप्रमाणमूर्धन्य-श्रुत्यनुगृहीतयुक्त्या
6
तयोः मायाकोशपञ्चक-रूपोपाध्योः इत्थं वक्ष्यमाणरीत्या निरासः करणीयः ॥२४७॥
246
All
248
En