विवेकचूडामणि
Śloka 248
Glossary
View Book
Verse
श्लोकः
Expand all
1
नेदं नेदं कल्पितत्वाच्च सत्यं
2
रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।
3
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
4
ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४८॥
Śloka 247
All Ślokas
Śloka 249
Commentary
व्याख्या
Expand all
1
नेदमिति । प्रथमेनेदंशब्देन ईशोपाधिमाया, द्वितीयेनेदंपदेन कोशपञ्चकं जीवोपाधिः ग्राह्यः
2
प्रत्येकं नेत्यनूभयोगोः कारणं वा माया, कार्यं वा कोशपञ्चकं कल्पितत्वात् न सत्यम्
3
"भूयश्चान्ते विश्वमायानिवृत्तिः"
4
कोशपञ्चकस्य दृष्टनष्टस्वरूपत्वमुपादितमेव अवस्थात्रयेनुत्तभ्यावात् ।
5
"सामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" इति गीतावचनाच्च ।
6
"तेद्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणनिगूढां" इति तस्या अपि दृश्यत्वश्रुतेः ।
7
अतः इदं कारणं माया-रूपोपाधिः न वस्तुतोऽस्ति सत्वे निवृत्तियोगात् "नाभावो विद्यते सतः" इति गीतावचनात् ।
8
एवं कोशपञ्चकमपि निपुणं विचार्यतो नैवास्ति धीमता शिष्येण "सवंभावं विना किंचन पश्यामि" इत्युक्तत्वात् ।
9
अतः पूर्वोक्तोपाधिद्वयमपि रज्जौ दृष्टव्यालवत् सर्पवत् स्वप्नवच्च न सत्यम् ।
10
इत्थं दृश्यं साधुयुक्त्या श्रुत्यनुसारिण्या युक्त्या साधु व्यपोह्य निरस्य
11
पश्चात् तयोः अनुपहितयोः केवलयोः चिन्मात्रयोः यः एकभावः भेदाभावः सः ज्ञेयः ॥२४८॥
Śloka 247
All Ślokas
Śloka 249