विवेकचूडामणि
Śloka 32
Glossary
View Book
Verse
श्लोकः
Expand all
1
मोक्षकारण-सामग्र्यां भक्तिरेव गरीयसी ।
2
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥३२॥
Śloka 31
All Ślokas
Śloka 33
Commentary
व्याख्या
Expand all
1
स्वस्वरूपानुसंधानमिति निदिध्यासनमुच्यते।
2
तस्यैव साक्षात्कारं प्रति साक्षात्साधनत्वात्।
3
श्रुत्याचार्योपदेशेन स आत्मा तत्त्वमसीति श्रुतः।
4
योऽर्थः तव स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसंधानं तद्भावनाधारा विजातीय-प्रत्यतिरस्कृत-सजातीय-प्रत्यय-प्रवाहरूपा साक्षात्करे असाधारणं कारणमिति भावः।
5
शमादीनां विचाराढारक-निदिध्यासनद्वारा कारणत्वं ज्ञाते, अस्य तु साक्षादिति भावः।
6
अत एव मोक्षस्य कारणं अभिव्यञ्जकं यज्ज्ञानं तत्साधनसमुदायमध्ये भक्तिरेव गरीयसी साक्षात्कारणत्वादिल्युक्तम्।
7
सा च सामग्री विवेकादिनिदिध्यासनान्ता ॥३२॥
Śloka 31
All Ślokas
Śloka 33