विवेकचूडामणि
Śloka 34
Glossary
View Book
Verse
श्लोकः
Expand all
1
श्रोत्रियोऽवृजिनो-कामहतो यो ब्रह्मविदुत्तमः ।
2
ब्रह्मण्युपरतश्शान्तो निरिन्धन इवानलः ॥३४॥
Śloka 33
All Ślokas
Śloka 35
Commentary
व्याख्या
Expand all
1
"श्रोत्रियश्छन्दोधीत" इति पाणिनिनानुशिष्टत्वात् अधीतोप-निषत्क इत्यर्थः।
2
उपनिषदमधीत्य कृतार्थत्व-विचारस्यैव साक्षात्कार-हेतुत्वात्।
3
अवृजिनः निष्पाप इत्यर्थः "नाविरतो दुश्चरितात् नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्" इति श्रुतेः।
4
तत्र कारणमाह अकामहत इति। कामेन विषयाशया हतः कामहतः अभासितस्वरूप इत्यर्थः। न कामहतः अकामहतः यस्तावस्व-रूपं आनन्दं न जानाति स एव बहिरानन्दबोलीतिति तं प्राप्तुं कदाचित्पापमपि कुर्यात्।
5
अस्य तावत् ब्रह्मवित्तमस्य साक्षात्क्रियमाण-स्वरूपानन्दत्वात् "विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते" इति गीतोक्तरीत्या निवृत्तरागत्वरूपाकामहत्वं सिद्ध्यतेवेति निष्पापत्वं तस्मिन्।
6
कामस्यैव पापहेतुत्वात्। तदुक्तम् गीतासु "अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वाष्णेय बलादिव नियोजितः" इत्यर्जुनेन पृष्टो भगवानाह "काम एषःक्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्" इत्यादि।
7
ब्रह्मण्युपरतः ब्रह्मणि विलीनमनस्कः अत एव निरिन्धन अनल इव शान्तः, यथा इधनाभावे अग्निः शान्तः ज्वालाशून्यः भाति तथा अनालिंगितबाह्यवृत्तित्वात् शान्तः निर्गुणे ब्रह्मणि परिनिष्ठित-चित्तत्वात् शान्तः निर्विकार इत्यर्थः।
8
अत्र श्रोत्रियत्वादीनां विशेषणानां व्यावर्तकत्वं नास्ति, ब्रह्मवित्तमे अश्रोत्रियतस्य पापस्य कामहतत्वस्य च असंभावित-त्वात्, किंतु वस्तुसत्यया तेषां तादृशगुरूज्ञापकत्वम् संभवतीति स्वरूपलक्षण-त्वमेव मन्तव्यम्।
Śloka 33
All Ślokas
Śloka 35