विवेकचूडामणि
Śloka 35
34
All
36
Glossary
विवेकचूडामणि
Śloka 35
100%
Commentary — व्याख्या
1
निवेद्यते हेतुर्यस्याः सा अहेतुकी तादृशी वा दया परदुःखप्राहाणेच्छा तस्याः सिंधुः आश्रय इत्यर्थः।
2
इतरस्य दयालोरपि दया अन्यत्र दुःख-दर्शनेन स्वस्यापि जातदुःखत्वात्।
3
तिभिरासार्थं अहेतुकेति।
4
अस्य तु ज्ञानमहिम्ना स्वतो वा परतो वा तु दुःखाप्रसक्तेः केवलं जनास्तरन्तु संसार-वाधिमिति इच्छा परं अव्युत्थानकाले इति भावः।
5
बन्धुः दुःखहारक इत्यर्थः। केषां ? आनमतां सतां प्रणीभवतां सत्पुरुषाणामित्येनेन शिष्यस्य लक्षणं परिज्ञायैव ते उपदिशन्तीति सूचितम्।
6
श्रूयते किल तत्र "नासूयकाया-नुजवे शठाय" "इदमिशिष्याय नो देयम्" इत्यादि।
7
स्मर्यते च गीतायां "इदं ते नातपस्काय नाभक्ताय कदाचन। नचाशुश्रूषवे वाच्यं न च मां योभ्यसूयति"।
8
इदमुपसदनं समीपगमनम्।
34
All
36
En