विवेकचूडामणि
Śloka 36
35
All
37
Glossary
विवेकचूडामणि
Śloka 36
100%
Commentary — व्याख्या
1
भक्तिः पूज्यत्वनुरागः मानसधर्मः, तया प्रह्नः तद्भव्यञ्जकाकार-विशिष्टः नम्रकायः वधांजलिपुटः, प्रश्रयसेवनैः प्रश्रयश्च सेवानि च प्रश्रयसेवानि तैरित्यर्थः।
2
तत्र प्रश्रयः विनीतवाक्त्वं सेवानि साष्टांग-नमस्कार-तत्पदसंवहन-तदुक्तकरणादीनि तैस्तमाराध्य संसेव्य, ऋज्वया तया सेवया प्रसन्नं स्वाभिमुखं तं अनुप्राप्य यथासमयनिर्देशं तत्सनिधो यथाविधि स्थित्वा आत्मनः ज्ञातव्यं यज्जिज्ञासितं आत्मयाथात्म्यविषये तत्पृच्छेत्।
3
भक्त्या प्रह्नः प्रश्रयसेवनैराराध्य इत्यनेन आराधयितुमन्निसि वचसि कायेच शुद्धवरूप-त्रिकरणशुद्धिकता ॥३६॥
35
All
37
En