विवेकचूडामणि
Śloka 37
Glossary
View Book
Verse
श्लोकः
Expand all
1
स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ ।
2
मामुद्धरात्मीय-कटाक्षदृष्ट्या ऋज्ज्यातिकारुण्य-सुधाभि-वृष्ट्या ॥३७॥
Śloka 36
All Ślokas
Śloka 38
Commentary
व्याख्या
Expand all
1
नतलोकबन्धः नतानां कृतनतीनां लोकानां जनानां बन्धुः दुःख-मोचकः तस्य संबुद्धौ नतलोकबन्धो, स्वामिन् प्रभो, ते तुभ्यं नमः, प्रह्णिभावः अस्त्विति शेषः।
2
यतस्त्वं नतलोक-दुःखमोचकः अतस्त्वां दुःखमुक्त्यै नमामीति भावः।
3
तत्र हेतुमाह कारुण्यसिंधो इति संबोधनेन। विवृत्तमेतत् अहेतुक-दयासिंधुरित्यत्र।
4
स्वकीयं दुःखं निवेदयति भवाब्धौ पतितम्, जन्मजराग-मरणार्थ-संकुले संसारसमुद्रे पतितमित्यर्थः।
5
इदानीं जन्मादि-बन्धान्निर्मुक्तं कुवित्त्यर्थः।
6
तत्र साधनं याचते आत्मीयकटाक्षदृष्ट्येति। स्वकीयलोचन-प्रान्तेनेत्यर्थः।
7
ब्रह्मसाक्षात्कार-निर्धूत-सकल-मलस्य भवतः पवित्र-कटाक्षपाते सकलपाप-निर्मुक्तोऽहं संसार-सागरं तरामीति भावः।
8
उक्तं हि "यस्यानुभवपर्यन्ता बुद्धिःसर्वे प्रवर्तते। तद्दृष्टि-गोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः" इति।
9
न स्थेयमिति विनयप्रकारो दिशतो भवति। किंच संपूर्णविलोकनं कटाक्षपात एव अतस्तत्कामयेइत्यपि भावः।
10
नित्यशुद्ध-ब्रह्मानन्द-मग्नस्य मनसः चक्षुःप्रान्तद्वारापूर्णतया मयि पाते सर्वेऽपि पूतः दुःखविमुक्तो भवेयमहम् इति भावः।
11
यद्वा आत्मीय-कटाक्षदृष्ट्या स्वकीय-सानुग्रहेक्षणेनेत्यर्थः।
12
ऋज्वया स्वभावसरल्या, तद्विशेषणेन यथा लोके अगाधजलपतिताः ऋज्वीं रज्जुं यष्टिं वा अवलम्ब्य उद्धृतो भवति तथाहं भवत्कटाक्ष-दीर्घदीर्घमवलम्ब्य संसाराब्धे-र्हृद्धृतो भवामीति भावः।
13
अतिकारुण्य-सुधाभिवृष्ट्या अत्यंत-कारुण्यसुध-हारकत्वात् सुधेति रूप्यते। सुधा नामामृतं, तस्याः अभितो वृष्टिः यस्यां दृष्ट्यां सा अतिकारुण्यसुधाभिवृष्टिः तया अतिकारुण्य-सुधाभि-वृष्ट्या।
14
अमृताभिवर्षणेन पुरुषः जरामरणादि-विजितो भवतीति प्रसिद्धं। युद्धे मृता वानरा इन्द्रकारितामृत-वर्षणेन उज्जीविता इति रामायणे प्रसिद्धं।
15
तादृशामृतस्यैव ब्रह्मनिष्ठानुकम्पा-मूलवर्षणवृष्टिः असंकुचित-जरामरणादि-विजितत्वं दास्यतीति भावः ॥३७॥
Śloka 36
All Ślokas
Śloka 38