विवेकचूडामणि
Śloka 58
Glossary
View Book
Verse
श्लोकः
Expand all
1
न योगेन न सांख्येन कर्मणा नो न विद्यया ।
2
ब्रह्मात्मैकत्वबोधेन मोक्षसिद्धयति नान्यथा ॥५८॥
Śloka 57
All Ślokas
Śloka 59
Commentary
व्याख्या
Expand all
1
मोक्षः ब्रह्मस्वरूपावस्थान-लक्षणमोक्षः, ब्रह्मात्मैकत्वबोधेन ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरेकत्वमभेदः तद्बोधः तत्साक्षात्कारः तेन सिध्यति, नान्यथा अन्येन प्रकारेण न सिध्यतीत्यर्थः ।
2
तदेव विशदयति, योगेन मोक्षो न सिध्यति, योगशास्त्रजन्यज्ञानेन भेद-विषयेण, चित्तवृत्तिनिरोध-रूपयोगेन वा मोक्षो न भवतीत्यर्थः ।
3
एवं सांख्येन कपिलमहर्षिप्रणीत-सांख्यशास्त्रजन्यज्ञानेन वा नानात्मविषयेण मोक्षो न सिध्यति ।
4
कर्मणा पूर्वकाण्डविहित-यज्ञादिकर्मणा न सिध्यति ।
5
न विद्यया, उपनिषद्धिहितयापि विद्यया सगुणोपासनया कैवल्यरूपमोक्षः न सिध्यतीति ।
6
तत्र योगसांख्य-शास्त्रजन्यज्ञानस्य भेदविषयत्वात्, "यदाहो वैष एतस्मिन् उदरमन्तरं कुरुते । अथ तस्य भयं भवति" इति अभयाप्राकपकत्वमेव नास्ति ।
7
"नास्त्यकृतः कृतेन, अमृतस्य नाशास्ति वित्तेन" इत्यादि-श्रुतिभ्यः नित्यमोक्षाभिव्यंजकत्वं कर्मणः नास्तीत्यवगम्यते ।
8
नित्यत्वं च मोक्षस्य "न स पुनरावर्तते" इति श्रुत्यावगम्यते, सः ब्रह्मलोकं गतः सगुणोपासकः पुरुषः पुनर्नावर्तते न संसारी भवति, जन्मभाड्न भवतीत्यर्थः ।
9
तथाच ब्रह्मणः "यो वै भूमा तदमृतम्" "सत्यं ज्ञानमनन्तं ब्रह्म" "नित्यो नित्यानाम्" इत्यादिश्रुतिशतेभ्यः नित्यत्वेन प्रतीयमानत्वात् तत्स्वरूपमोक्षस्यापि नित्यत्वम् ।
10
उक्तं च शास्त्रान्तिमाधिकरणशाभ्ये "सम्यग्दर्शिन-विध्वस्त-तमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिः" ।
11
तदाध्ययनेनैव हि सगुणलोकगतानां तत्रैव कृतसाक्षात्काराणां कैवल्यरूपमोक्षः । "ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" "ब्राह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इत्यादिश्रुतिस्मृतिश्योवगम्यते ।
12
तत्र परामृतात् वेदान्तविचारजनितोत्कृष्टज्ञानात् इत्यर्थः ।
13
कृतात्मानः कण्ठगतेमेव चामीकरस्य कवचादिना तिरोहितं अन्विष्यान्विष्य भ्रान्तः आप्तवाक्येन, वत्ते किलात्रैव तव कण्ठे कुतो वा भ्राम्यति भवान् इत्यनेन बोधितः अप्राप्तिमिव प्राप्नोति स्थितस्यैव चामीकरस्य अभिव्यंजकः तदात्वाक्यजन्यज्ञानम् ।
14
एवं सिद्धस्यैव ब्रह्मभाव-रूपमोक्षस्य अभिव्यंजकः तत्वमसीत्यादि-गुरूपदिश्यमान-महावाक्यज-साक्षात्कारः इति कार्यः ।
15
तथाच उत्पाद्य-संस्कार्यविकार्याणां अन्यतमस्य कर्मफलत्वं दृष्टम् ... एतत्तु समवय-सूत्रभाष्ये विस्तरेणोपादितं भगवत्पादैः ।
16
अतः कर्मफलत्वाचर्याद्यन्तम-धर्मिभावात् कर्मणा नो सिध्यतीत्यर्थः ।
17
विद्यां चाविद्यां च, विद्यापदस्य उपासनापरत्वं सिध्यति । अतः आत्मविद्याभ्यतिरिक्तापरिविद्याअर्थः । तयाह्यात्मस्वरूपावस्थान-लक्षणमोक्षः न साक्षासिध्यतीत्यर्थः ॥५८॥
Śloka 57
All Ślokas
Śloka 59