विवेकचूडामणि
Śloka 59
58
All
60
Glossary
विवेकचूडामणि
Śloka 59
100%
Commentary — व्याख्या
1
रञ्जनाद्राजा "राजा प्रकृतिरञ्जनात्" इत्युक्तानुसारेण कश्चिद्वैणिकः रूपेण जनमनोहरां काञ्चिद्वीणामादाय तत्तन्त्रीः सुष्ठु वादयति चेत् यद्यपि रञ्जन्ते प्रजाः सुदरवीणादर्शनेन सौष्ठवोपेत-तत्तन्त्रीवादनेन च ।
2
अथापि तद्रञ्जनं न वैणिकस्य साम्राज्याय साम्राज्यभावाय कल्पते ।
3
तद्वदात्मैकयबोधेन विना योगशास्त्रादिज्ञानं वा कर्म वा उपासनं वा न साक्षात्कैवल्याय कल्पत इति भावः ।
4
वीणायाः रूपसौन्दर्यं सुन्दररूपवत्त्विमति यावत् । तन्त्र्याः वादने सौष्ठवं वैणिकनिष्ठ-प्रजारञ्जनमात्रं तत् न साम्राज्याय कल्पत इत्यर्थः ॥५९॥
58
All
60
En