विवेकचूडामणि
Śloka 69
Glossary
View Book
Verse
श्लोकः
Expand all
1
यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रसम्मतः ।
2
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६९॥
Śloka 68
All Ślokas
Śloka 70
Commentary
व्याख्या
Expand all
1
न केवलं तीव्रमुमुक्षया उत्तमाधिकारित्वं ते,
2
अपितु मुमुक्षु-ज्ञेयान्युनानतिरिक्तविषयान् क्रोडीकृत्य यदप्राक्षीमों,
3
तेनापि मेधावित्व-विदर्त्वोहापोहिवचक्षणत्वादि-धर्ममण्डितत्वं
4
मुमुक्षूणां सर्वेषां ज्ञातव्य-मार्ग-दर्शकोसीति महात्मना गुरुणा शाघितः
5
भक्तिश्रद्धाभिरितमनाः भक्तिप्रमुक्तं गृह्णातीत्यभिप्रायेण
6
"यस्य देवे परा भक्तिः यथा देवे तथा गुरौ" । तर्स्यैते कथिताऽर्थाः प्रकाशन्ते महात्मनः" इति श्रुतेः ।
7
अथ इदानीं, यः प्रश्नः कोनाम बन्धइत्यादिरूपः कृतः सः वरीयान् अत्यन्तं वरः ।
8
तत्र हेतुमाह शास्त्रविमतः, ये तावत् अत्यन्तं शास्त्रविदः तैरेवैवं प्रष्टुं शक्यत इति भावः ।
9
तत्र हेतुमाह सूत्रप्राय इति बन्धमोचक-सूत्रप्रायः इति बन्धमोचकसर्वस्थैव पृच्छत्वात् अल्पाक्षरेण संगृहीतेन शब्देन ।
10
शब्दस्तु अल्पाक्षरः ज्ञेयार्थस्सर्वोऽपि अत्र निगूढ इति वदन् सूत्रप्रायत्वं विशदयति निगूढार्थः इति ।
11
एतत्प्रकरणग्रन्थस्य उत्तरस्य सर्वस्यापि एतदुत्तरत्वात् प्रतिपादनीयार्थस्सर्वोऽपि इत्र बुद्धिमता शिष्येण उपलिप्त इति भाव ।
12
आत्मानात्म-विवेकज्ञय-साक्षाकरेण हि सहेतुक-बन्धनिवृत्तिरूपमोक्षः उक्तः अज्ञानयोगा-दित्यादिना गुरुणा ।
13
सहसा गुरुक्ति विज्ञाय प्रष्टव्यांशस्य सर्वस्याप्यनव-शेषं अनतिरेकेण पृच्छत्वात् मेधावित्वादिकं शिष्यस्य सम्यगवगम्य गुरुस्तं नितरां शाघयामास ॥६९॥
Śloka 68
All Ślokas
Śloka 70