विवेकचूडामणि
Śloka 70
Glossary
View Book
Verse
श्लोकः
Expand all
1
श्रुणुष्वावहितो विद्वन् यन्मया समुदीर्यते ।
2
तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे ॥७०॥
Śloka 69
All Ślokas
Śloka 71
Commentary
व्याख्या
Expand all
1
हे विद्वन् ! मेधावित्वादुक्तात्मविद्याधिकारिविशिष्ट,
2
मया यत्समुदीर्यते संग्रहेण विस्तरेण च सम्यज्ज्ञानाय यदुच्यते,
3
तत् अविहितः विषयान्तरमनसंसचाररहितः श्रद्धया श्रुणुष्व ।
4
एतच्छ्रवणात् यथाविध मदुक्तवाक्यश्रवणात् सद्यः श्रवणसमनन्तरमेव,
5
आत्मानं साक्षात्कृत्य भव-बन्धात् संसारबन्धात् कर्तृभोक्तृ-भव-जन्मजरामरणादिरूपबन्धा-द्विमोक्ष्यसे नितरां मुच्यस इत्यर्थः ॥७०॥
6
इदानीं तदीयप्रश्नानुसारेण तेन जिज्ञासितमर्थं बिभक्षुः प्रथमतः कथं विमोक्ष इत्यस्य प्रश्नस्योत्तरमाह ।
7
ननु "को नाम बन्धः कथमेष आगतः, कथं प्रतिष्ठास्य" इति प्रथमतः कुत्रप्रश्नत्रयस्य उत्तरमनुक्त्वा तुरीयस्य कथं विमोक्ष इत्यस्य उत्तरकथनमनुचितमिति चेन्,
8
तत्हायत्यन्तग्निना दह्यमाने गृहे क्षिप्रं जलसेकादिना अग्निशान्तिमकृत्वा कुत्रास्निः पतितः, कथं पतितः इति विचारणेन कालयापनं युक्तं तथासति निरवशेषं गृहस्य दह्यमानत्वात् ।
9
तथा सर्वेर्ण्यप्यनिभिः सांसारिकबन्धः अनुभूयत एव तिथेः तिथेस्तिथेः,
10
तिथिभिर्प्राप्येण ज्ञातव्यशास्यस्य मध्ये "अनन्तशास्त्रं बहु वेदितव्यं अल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम्" इत्यभियुक्तोक्त्या सारभूतमंशं गुरुरादावाह मोक्षयेत्यादिना,
11
क्षिप्रं मोक्षहेतुं विज्ञाय तल्लाभेन सहसा बन्धान्मुक्तः निलयानन्दमनुभवित्यभिप्रायेण ।
12
किञ्च आत्मात्मज्ञातं विना बन्धस्वरूपस्य वक्ष्यमाणस्य ज्ञातुमशक्यत्वाच्च, तत्सर्वं पश्चादध्यामीति-धिया च प्रथमं कथं विमोक्षइत्यस्य उत्तरमाह । मोक्षस्येत्यादिना ।
Śloka 69
All Ślokas
Śloka 71