विवेकचूडामणि
Śloka 71
Glossary
View Book
Verse
श्लोकः
Expand all
1
मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषु ।
2
ततश्शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम् ॥७१॥
Śloka 70
All Ślokas
Śloka 72
Commentary
व्याख्या
Expand all
1
अनित्यवस्तुषु देहादिब्रह्मापर्यन्तेषु अत्यन्तं वैराग्यं मोक्षस्य प्रथमो हेतुर्निगद्यते, बहुतरविक्षेप-हेतुभूतावाञ्चून्यस्यैव मनसः स्वलक्ष्ये नियता-वस्थारूप-शमादेः संभवात् ।
2
ततश्शमश्च उक्तलक्षणः ।
3
चशब्दः उक्त-समुच्चयकः ।
4
अत्र सर्वेषामपि वैराग्यादीनां ज्ञानकालेप्यावश्यकत्वात् अन्तरङ्गत्वात् पूर्वापरभावसत्त्वेपि कुलालिपितृवत् अन्यथासिद्धिकाञ्च न कार्यः अपितु शब्दसमुच्चय इति समुच्चयः कथ्यते ।
5
तथा दमः तितिक्षा प्रसक्ताखिलकर्मणां वणिश्रमिवहित्त्वेन प्रसक्तानां प्राप्तानां अखिलानां सर्वेषां कर्मणां वैराग्योत्पत्तिपर्यन्तं अनुष्ठेयत्वात्, उत्पत्ते च तीव्रवैराग्ये भृशं न्यासः स्वरूपतो परित्यागः ।
6
पूर्वं चित्तशुद्ध्यर्थपरिवयिवैराग्यार्थं फलमनभिसंधाय कर्मणामनुष्ठानं, इदानीं फलस्य निष्पन्नत्वात् सर्वत्रां इति भावः ।
Śloka 70
All Ślokas
Śloka 72