विवेकचूडामणि
Śloka 72
71
All
73
Glossary
विवेकचूडामणि
Śloka 72
100%
Commentary — व्याख्या
1
अनित्यवस्तुषु देहादिब्रह्मापर्यन्तेषु अत्यन्तं वैराग्यं मोक्षस्य प्रथमो हेतुर्निगद्यते, बहुतरविक्षेप-हेतुभूतावाञ्चून्यस्यैव मनसः स्वलक्ष्ये नियता-वस्थारूप-शमादेः संभवात् ।
2
ततश्शमश्च उक्तलक्षणः । चशब्दः उक्त-समुच्चयकः ।
3
अत्र सर्वेषामपि वैराग्यादीनां ज्ञानकालेप्यावश्यकत्वात् अन्तरङ्गत्वात् पूर्वापरभावसत्त्वेपि कुलालिपितृवत् अन्यथासिद्धिकाञ्च न कार्यः अपितु शब्दसमुच्चय इति समुच्चयः कथ्यते ।
4
तथा दमः तितिक्षा प्रसक्ताखिलकर्मणां वणिश्रमिवहित्त्वेन प्रसक्तानां प्राप्तानां अखिलानां सर्वेषां कर्मणां वैराग्योत्पत्तिपर्यन्तं अनुष्ठेयत्वात्, उत्पत्ते च तीव्रवैराग्ये भृशं न्यासः स्वरूपतो परित्यागः ।
5
पूर्वं चित्तशुद्ध्यर्थपरिवयिवैराग्यार्थं फलमनभिसंधाय कर्मणामनुष्ठानं, इदानीं फलस्य निष्पन्नत्वात् सर्वत्रां इति भावः ।
6
ततः सर्वकर्म-संन्यासानन्तरं, श्रुतिः अर्थात् गुरुमुखात् वेदान्तवाक्यश्रवणं, वेदान्तवाक्यार्थनिर्णयानुकूल-व्यापारः, तन्मननं श्रुतार्थस्य दाढ्यार्थाय उत्पत्तिभिश्चिन्तनं ।
7
ततः असम्भावना-संशयभावनयोः श्रवणमनताभ्यां निरस्तयोः, सत्त्वध्यानं परमार्थतत्त्वस्य ध्यानं, तदपि चिरं कर्तव्यं, अनात्मस्वात्मत्व-वासनायाः आनादिकालप्रवृत्तया परिसराथं ।
8
चिरं क्रियमाणमपि यदि विच्छिद्य विच्छिद्य त्रियेत विच्छेदकालिक-वृत्तिभिः आत्मवृत्त्तेरभिभूयमानत्वात् निदिध्यासन-मेव न सिध्येत्, अतः नियनिरन्तरमित्युक्तं ।
9
तेन "स तु दीर्घकाल-नैरन्तर्यसत्कारासेवितो दृढभूमिः" इति योगसूत्रोक्तरीत्या दिवसैर्वा मासैर्वा निदिध्यासनं सिध्यतीति न वाञ्छेत् ।
10
तदा विद्यमानाश्चत्वार एव माणकस्य पञ्च दिवसा अतीताः नाद्याप्यसौ समागत इति मुढवचनानुसारयं ध्याता स्यात् ।
11
अपितु संवत्सरैः जन्मभिर्वा आदरपूर्वकं सर्वदा सेवितव्यमिति चिरं, नित्यनिरन्तरं इति विशेषणं "अनेकजन्मसंसिद्धस्ततो याति परां गतिं" इति स्मृतेः ।
12
नित्यं अविच्छेदेन वह्वकालपर्यन्तं निदिध्यासनं सिध्यति चेत् इहैव जन्मनि ततः परिपक्ववानिर्-धारणत्वं अविकल्पं निर्विकल्पकसमाधिं, परं सविकल्पकात्परं उत्कृष्टं एत्य प्राप्य, विद्वान् आत्मसाक्षात्कारवान्, निर्वाणसुखं मुक्तिसौख्यं, समृच्छति निरङ्गलमनुभवतीत्यर्थः ॥७२॥
13
अस्मिन्नेव जन्मनि मोक्षं प्राप्तुं वक्तव्यं संग्रहेणोक्त्वा, विद्वानिहैव निर्वाणसुखं समृच्छतीत्युक्त्या धनी सुखीत्यादि यथा धनप्रयोज्यत्वं सुखे भासते "उद्देश्यविधेयभावस्थले असति बाधके उद्देश्यतावच्छेदक-प्रयोज्यत्वं विधेये भासते" इति लोकसिद्धत्वात् विद्विद्वेषणभूत-विद्या-प्रयोज्यत्वस्य निर्वाणसुखे भातत्वेन तस्यार्थाय विद्याया आत्मानात्मविवेचन-जन्यत्वेन तदादौ विशदयति ।
14
यद्वोढ्व्यमिति ।
71
All
73
En