विवेकचूडामणि
Śloka 73
72
All
74
Glossary
विवेकचूडामणि
Śloka 73
100%
Commentary — व्याख्या
1
एतेन "कोसावनात्मा परमः क आत्मा" इति प्रश्नोपप्त्युत्तरितो भवति ।
2
तब इदानीं मोक्षहेतु-ज्ञानबोधात्प्राक् तद्धेतुत्वेन आत्मानात्म-विवेचनं अयमात्मा अयमनात्मा इतिभेदज्ञानानुकूलव्यापारः बोद्धव्यं ज्ञातस्मात्कारणात् मया सम्यक् उच्यते ।
3
तं श्रुत्वा आत्मनि मनसि, अवधारय निश्चिन्नुहीत्यर्थः ॥७३॥
4
तत्र अनात्मद्वारैव आत्मनः ज्ञातव्यत्वेन अनात्मनः स्थूलत्वेन प्रथमं ज्ञातुं शक्यत्वेन तस्मिंश्च ज्ञाते सूक्ष्मस्याप्यात्मनः ज्ञानं सुलभं भवतीति प्रथमतोनात्मनो निरूपयति ।
5
"अथ ते संसवदशासि" इत्यतः तत्रादौ सकल-बुद्धिगम्यं स्थूलशरीरं निरूपयति अहंतया विस्पष्ट-व्यवहारगम्यत्वात् ।
72
All
74
En