विवेकचूडामणि
Śloka 75
Glossary
View Book
Verse
श्लोकः
Expand all
1
नभोनभस्वद्दहनांबुभूमयः सूक्ष्माणि भूतानि भवन्ति तानि ॥७५॥
2
परस्परांशैर्मिलितान् भूत्वा स्थूलानि च स्थूलशरीरहेतवः ॥
Śloka 74
All Ślokas
Śloka 76
Commentary
व्याख्या
Expand all
1
नभश्च नभस्वांश्च दहनश्च अम्बु च भूमिश्च नभोनभस्वद्दहनांबुभूमयः । नभः গগनं नभस्वान् वायुः, दहनोनिः, अंबु जलं, भूमिः पृथ्वी, इदं भूतपंचकं जायमानं सूक्ष्मं जायते ।
2
पश्चात् छष्टया देवतया तासां त्रिवृत् त्रिवृत् एकैकां करवाणीति संकल्पवशात् एकैकं भूतं पंचीक्रियते ।
3
तैत्तिरीयकश्रुत्यनुसारेण आकाशाद्वायोः छान्दोग्ये तेजसः प्रथममपुसंहर्तव्यात् त्रिवृत्करणस्य पंचीकरणोपलक्षणार्थत्वात् ।
4
तत्प्रकारस्तु "पंचानां भूतानां एकैकं द्विधा विभज्य स्वार्धंभागं विहाय अर्धभागं चतुर्धा विभज्य इतरेषु योजिते पंचीकरणं भवतीति" भाष्यकारवाक्यानुसारेण ज्ञातव्यः ।
5
अयमर्थः श्लोकेन संगृहीतः पंचदश्यां विद्यारण्यगुरुचरणैः "द्विधा विभाय चैकैकं चतुर्धा प्रथमं पुनः । स्वस्वेतरिद्वितीयांशैः योजनात् पंच पंच ते" इति ।
6
तथाच स्थूलेषु भूतेषु स्वस्वीयोर्धभागः इतरस्य भूतस्य अष्टमो भागः ।
7
एवं परस्परांशैर्मिलितानि संबद्धानि भूत्वा स्थूलानि গগनादि-शब्द-व्यवहारार्हाणि, स्थूलशरीरहेतवश्च भवन्तीति योजना ॥७५॥
8
भूतप्रसंगात् तद्धर्मिश्छादादीन् विषयान् तत्र वैराग्योत्पत्यर्थं निरूपयति ।
Śloka 74
All Ślokas
Śloka 76