विवेकचूडामणि
Śloka 76
75
All
77
Glossary
विवेकचूडामणि
Śloka 76
100%
Commentary — व्याख्या
1
मीयन्ते विषयीक्रियन्ते भुज्यन्त इति वा मात्राः ।
2
तदीयाः आकाशादि-भूतसंबन्धिन्यः शब्दादयः क्रमेण शब्दस्पर्शरूपरससुगन्धाः पंच विषयाः ।
3
विशेषेण सन्तर्पयन्तीति विषयाः, विषरूधातोः विपूर्वकात् बन्धनकर्मणः विषय-शब्दस्य निष्पत्तिः ।
4
भोक्तुः संसारिणः जीवस्य सुखाय सुखाभासाय भवन्ति ।
5
शब्दादयः पंचतन्मात्रा इति व्यवह्रियन्ते इति मात्रास्तदीया इति कथितम् तत्तद्ग्रथसंबादाय ॥७६॥
6
इदानीं तेषां बन्धकत्वं विशदयति ।
75
All
77
En