विवेकचूडामणि
Śloka 77
Glossary
View Book
Verse
श्लोकः
Expand all
1
य एषु मूढा विषयेषु बद्धा रागोरुपाशेन सुदुर्दमेन ।
2
आयान्ति नियान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ॥७७॥
Śloka 76
All Ślokas
Śloka 78
Commentary
व्याख्या
Expand all
1
ये मूढा विवेकशून्याः, एषु विषयेषु शब्दादिषु पंचसु, सुदुर्दमेन सुष्टु दुःखेन दमयितुं शक्येन दुर्निरसेन, रागोरुपाशेन उरुः दृढः पाशः राग एव उरुपाशः तेनासक्तिरूपप्रेणदृढपाशेन बद्धाः ।
2
स्तम्भेषु प्रसादाय इव, तत्र अत्यन्तकामविशिष्टा इति यावत् ।
3
यथा स्तम्भबद्धाः पशवः स्तम्भं विहाय गन्तुं न पारयन्ते, एवं विषयरागिणः विषयान्स्त्यक्तुं न शक्नवन्तीति तत्रैवाशया श्रीयाम्मागादिशत्यत्राह ।
4
आयान्ति नियान्त्यध ऊर्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः ।
5
येषां कर्म धर्माधर्मरूपं तदेव ऊर्ध्वाधोगमनहेतुत्वाद्-दूतवद्वर्तते विचारार्हदूतः तद्धत् ।
6
तत्रापि शब्दादिकं सुखं जनयतीति धिया तत्संप्रयोगे पुण्यार्जनं करोति, तदा दिव्यशब्दादिकं अनुभवितुं तदीयं पुण्यं कर्म तमुच्चैः ऊर्ध्वं नयति स्वर्गादिकं प्रापयति ।
7
तत्रापि क्षीणे पुण्ये अधः पुनः आगमनं अस्त्येव ।
8
उच्चैरूर्ध्वं, आयान्ति जन्मान्तरक्रुत-सुकृतवशात् मानुष्यादिकं संपादयन्ति । पुनः रागे अधो नियन्ति ।
9
विषयेषु रागवतः कर्तव्यकार्य-विस्मरण-संभवात् निस्तारो न भवतीति भावः ॥७७॥
Śloka 76
All Ślokas
Śloka 78