विवेकचूडामणि
Śloka 78
Glossary
View Book
Verse
श्लोकः
Expand all
1
शब्दादिभिः पंचभिरेव पंच पंचत्वमापुः स्वगुणेन बद्धाः ।
2
कुरंग-मातंग-पतंग-मीन-भृंगा नरः पंचभिरंचितः किम् ॥७८॥
Śloka 77
All Ślokas
Śloka 79
Commentary
व्याख्या
Expand all
1
कुरंगः हरिणः, मातंगः गजः, पतंगः शलभः, मीनः मत्स्यः, भृंगः भ्रमरः एते पंच स्वगुणेन स्वस्वसक्तिविषयेण गुणेन शब्दादीनां गन्धात्तानां पंचानां मध्ये एकेनैकेन क्रमेण गृढास्सन्तः पंचत्वं मरणमापुः ।
2
एवं एकैकस्यापि मरणपर्यन्तवन्धप्रयोजकत्वे एतैः पंचभिरपि अन्चितः स्वकीय-सक्त्याश्रयत्वेन विशिष्टः नरः किं मृत्युं प्राप्नोतीति वक्तव्यमित्यर्थः ।
3
यथा लोके हरिणं जिघृक्षवः वेणुगानादिमधुरशब्दसक्तं तं चपलं शीघ्रं बहुदूरं धावन्तमपि निश्चलीकृत्य तच्छब्दश्रवणसक्तं विस्मृतात्मानं गृण्हन्ति ।
4
एवं मनःस्वच्छन्दं विहारि दुर्गेह वनमध्ये महानपि मातंगः स्पर्शमुखलोलुपः तज्जिघृक्षुभिः वशाद्वारा गृह्यते इति त्वगिन्द्रियतृप्तिहेतोः स्पर्शे एक एव गजस्य बन्धको निर्वृत्तः ।
5
एवं पतंगः प्रकाशमाने दीपे भास्वरूपदर्शनेन भक्षयबुद्ध्या तदीयं दाहात्स्वयं अजानन् तत्र पतित्वा म्रियत इति रूपस्य मृत्युहेतुत्वं प्रसिद्धम् ।
6
एवं मीनः झपः दाशप्रसारितं जालं प्रविश्य म्रियत इति प्रसिद्धम् ।
7
एवं घ्राणतृप्तणलालसः भ्रमरः तत्तलुष्पाणीव चंपक-सुमं आधाय तद्गन्ध-सेवनेन पंचत्वमापनोतीति च ।
8
एवं शब्दादीनां मध्ये एकैकमपि सेव्यमानं मरणान्तान्तर्थप्रयोजकं ।
9
तत्रापि तिरश्चां पापाभावात् तदानीतन-शरीरस्य परमार्थः संभवति ।
10
शब्दादीनां पंचानामपि विषयाणां सेवनाय विहितमनाचरन् पापमप्याचरन् नरः लोकद्वयादपि भ्रश्यते इति भावः ॥७८॥
11
विषयानुभवः मृत्युहेतुरिति तिष्ठतु । दर्शनमात्रादपि मारयन्विषयः कृष्णसर्पविषादपि अतिरिच्यत इत्याह ।
Śloka 77
All Ślokas
Śloka 79