विवेकचूडामणि
Śloka 79
Glossary
View Book
Verse
श्लोकः
Expand all
1
दोषेण तीव्रो विषयः कृष्णसर्पविषादपि ।
2
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम् ॥७९॥
Śloka 78
All Ślokas
Śloka 80
Commentary
व्याख्या
Expand all
1
विषयः रूपादिः कृष्णसर्पविषादपि दोषेण तीव्रः तीक्ष्णः, कृष्णसर्पविषे मारकत्वरूपदोषः यावान् तदपेक्षया तीक्ष्णो दोषः विषये ।
2
तत्र हेतुमाह विषं निहन्ति भोक्तारमिति ।
3
कृष्णसर्पेण दष्टस्य पुरुषस्य नाडीद्वारा जिह्वासंबद्धं विषं भवतीति स भोक्त्युच्यते ।
4
अत एव पादादी सर्पेण दष्टा अपि तत्र बलवद्वढा रजादिना, न म्रियते तहिषस्य नाडीद्वारा जिह्वासंवाहाभावात् ।
5
एवं मीनादयः निहन्ति विषं तस्यासत्वमापादयति ।
6
अयं विषयस्तु चक्षुषाद्रष्टारमपि निहन्ति, प्रसिद्धं खलु लोके सुन्दरं रूपादिकं दृष्ट्वा कलहायमाना नश्यन्ति जनाः इति ।
7
यद्दा कलहाद्यभावेपि स्वयं तेन विषयेण दुरमाकृष्टचित्तः स्वात्मानं द्रष्टुं न शक्नोतीति स्वात्मानापादक-व्यापारान् नियमेन भवतीति भावः ।
8
तथाच निहन्तीत्यस्य असत्वापादकव्यापारः, वा अर्थः । यथायोग्यमर्थः स्वीकरणीयः ।
9
तत्र असत्वापादकव्यापारस्य अभानापादकत्वं सिद्धमेव । द्वितीयस्य तु असत्वापादकत्वं न संभवतीति ।
10
वस्तुतस्तु विषयाकृष्ट-चित्तस्य पुरुषस्य सत्वमपि पुरुषार्थोपयोगाभावात् असत्वमिव भवत्यपि सुवचम् ॥७९॥
11
एवमत्यन्तानर्थकरेपि विषये विचाराभावातुरुषः आशां बधनाति, तस्रत्वदोषं न परिणगयति मौढ्यात् ततः पुरुषार्थादि भ्रश्यते ।
12
अतः समुमुखुणा सर्वथापि तदाशा व्यक्तता होते इत्यथेन्यथा षडपि शास्त्राणि अर्थतो जानातोपि मोक्षो दुर्लभ इत्याह ।
Śloka 78
All Ślokas
Śloka 80