विवेकचूडामणि
Śloka 80
79
All
81
Glossary
विवेकचूडामणि
Śloka 80
100%
Commentary — व्याख्या
1
यः पुरुषः सुदुस्त्यजात् चिरकालादभ्यस्तत्वेन दृढविचारमन्तरा त्यजात् त्यक्तुमशक्यात् ।
2
विषयाशामहापाशात् विषयाशैव महापाशः विषयबन्धकत्वात् तस्मादिव मुक्तः विशेषेण सुतरां तत्संबन्धरहितः ।
3
स एव पुरुषः मुक्त्यै कल्पते समर्थो भवति ।
4
अन्यः तदाशापाश-दृढास्त्रवेद्यपि न मुक्त्यै समर्थो भवतीत्यर्थः ॥८०॥
5
विषयेषु तीव्रवैराग्याभावे अनर्थमाह ।
6
आपातेति ।
79
All
81
En