विवेकचूडामणि
Śloka 81
Glossary
View Book
Verse
श्लोकः
Expand all
1
आपात-वैराग्यतो मुमुक्षुन् भवाब्धिपारं प्रतयातुमुद्यतान् ।
2
आशाग्रहो मज्जयतेन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥८१॥
Śloka 80
All Ślokas
Śloka 82
Commentary
व्याख्या
Expand all
1
आपातवैराग्यवतः दुःखानुभवादिकालेषु भिक् संसार इति वैराग्यवतः, सार्विकवैराग्यशून्यानिति यावत् ।
2
भवाब्धिपारं संसारसागरान्तं ज्ञानं, प्रतियातुं प्राप्तुं, उद्यतान् उद्युक्तान् ।
3
तत्र हेतुमाह मुमुक्षुनिति । मोक्षेच्छाया सत्त्वात् संसारबुद्धि तत्तुं उद्युक्ता इति तादृशान् पुरुषान् आशैव ग्रहः महानकः ।
4
अन्तराले समुद्रमध्ये कण्ठे निगृह्य नितरां गृहीत्वा वेगाविनिवर्त्य मज्जयते भ्रमन् करोति संसारसमुद्रमग्नान् पुनः कर्मादिकरणेषु तन् व्यापारयतीति भावः ।
5
यस्तावत् अत्यन्तं विषयेभ्यो विरक्तः शमादिगुणगणमण्डितः स सद्गुरुं उपसद्य तन्मुखतः सम्यगात्मानं विदित्वा मुच्यते संसारात् ।
6
अयं तावत् अत्यन्त-आपातवैराग्यमनादिविहीनः तथा-प्रयतमानोपि मध्ये आशया पीडितः पुरुषार्थादिभ्रश्यते । ज्ञानाहो न भवतीति भावः ॥८१॥
7
पूर्वोक्तमर्थं व्यतिरेकमुखेनाह । विषयाभ्यति ।
Śloka 80
All Ślokas
Śloka 82