विवेकचूडामणि
Śloka 82
81
All
83
Glossary
विवेकचूडामणि
Śloka 82
100%
Commentary — व्याख्या
1
विषयाख्यग्रहः विषयनामकग्रहः, येन पुरुषेण, सुविरक्तसिना सुष्ठु विरक्तिः दृढतरतीव्रवैराग्यं सैवासिः खड्गः, तेन हतः नाशितः ।
2
सः पुमान् प्रत्यूहवर्जितः संसारसागरोत्तरणे भवाम्भोधेः पारं संसारसमुद्रस्य जन्ममरणादिकल्लोलतरंगितस्य पारं अन्तं ब्रह्मेति यावत् ।
3
"सोश्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इति श्रुतेः ।
4
गच्छति प्राप्नोति, ब्रह्म साक्षात्कृत्य मुच्यत इत्यर्थः ॥८२॥
5
"यस्तु विज्ञानवानार्भवति अमनस्कः सदाशुचिः। न स तत्पदमाप्नोति संसारं चाधिगच्छति । यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। स तु तत्पदमाप्नोति यस्मात् भूयो न जायते" इति कठोपनिषत्प्रतिपादित-मर्थं पूर्वोक्तश्लोकद्वयसारं कोडीकृत्य उपदिशति ।
6
विषमेनेति ।
81
All
83
En