विवेकचूडामणि
Śloka 83
Glossary
View Book
Verse
श्लोकः
Expand all
1
विषमविषयमार्गे गच्छतोऽनच्छबुद्धेः
2
प्रतिपदमिभघातो मृत्युर्येयसिद्धः ।
3
हितसुजनगुरुक्त्या गच्छतः स्वस्य युक्त्या
4
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि ॥८३॥
Śloka 82
All Ślokas
Śloka 84
Commentary
व्याख्या
Expand all
1
विषमः बहुविधविक्षेपहेतुः अत्यन्तदुःखजटिलः यः विषयः शब्दादिः स एव मार्गः, "विषयांस्तेषु गोचरान्" इति कटश्रुतेः, तत्र गच्छतः तत एव अनच्छबुद्धेः अशुद्धमनस्कस्य ।
2
यदि शुद्धं मनः अवश्यं विचारशीलं विषयेभ्यो निवर्तते ।
3
रजस्तमोभूयिष्ठत्वादेव विचाराशम्मर्थं, "यथा व्याल-गलस्थोपि भेकः दंशनपेक्षते, तथा कालाहिना ग्रस्तो लोको भोगानशन्तान्" इत्युक्तरीत्या विषयप्रवणता तस्य इति भावः ।
4
एतादृशाशुद्धमनस्कस्य प्रतिपदमिभघातः सर्वेदापि दृढदुःखसंयोगः, एषः अनुभवसिद्धः मृत्युरिप सिद्धः मृत्युघटितः संसार इत्यर्थः ।
5
"मन एव मनुष्याणां कारणं बन्धमोक्षयोः निविषयं मुक्त्यै निविषयं स्मृतम्" इति वचनस्य पूर्वमुदाहृतत्वात् ।
6
स्मर्यते हि गीतासु "ध्यायतो विषयान् पुंसः संगस्तेषूपजायते । संगात्संजायते कामः कामात्क्रोधोभिजायते । क्रोधाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति" इति ।
7
तत्र कथितं प्रणाशः नश आर्दनेनेति धातुना प्रतीयमानः, कास्वरूपसाक्षात्कारस्य वा अत्र मृत्युपदार्थः स्वीकरणीयः ।
8
तत्र असत्वापादकव्यापारस्य अभानापादकत्वं सिद्धमेव, कामस्यैव वा अत्रापि प्रतिपदमिभघात इत्यर्थः ।
9
लोके यथा इच्छा तथा विषयानुभवस्य दुर्लभत्वात्, जातायां इच्छायां अभिहन्यमानायां अविचारियतुः पुरुषस्य क्रोधादिक्रमेण प्रणाश एवमिति भावः ।
10
एवं अविरक्तस्य फलमुक्त्वा तदाह हितसुजनगुरुक्त्येत्यादिना ।
11
हिताः श्रेयस्कामिनः अत एव मुमुञ्जाः सत्पुरुषाः मित्रादयः तोषां गुरोश्च उक्त्या, गुरोस्तु हितत्वं सुजनत्वं च सिद्धमेव ।
12
गुरुलाभपर्यन्तं सुजनोक्तिः, ततः गुरुरितिरिति विभागः ।
13
यद्दा हिता सर्वेदा श्रेयोहेतुभूता सुजानानां गुरोश्च उक्त्या, तदहतया तदनुसाईयाहोपेहेन च गच्छतः "पण्डितो मेधावी गन्धारानेवोपसद्येत, एवमेवेहाचार्यवान्-पुरुषो वेद" इति श्रुतेरिति भावः ।
14
श्रेयोमार्गे एव गच्छतः फलसिद्धिः
Śloka 82
All Ślokas
Śloka 84