विवेकचूडामणि
Śloka 92
Glossary
View Book
Verse
श्लोकः
Expand all
1
सर्वोपि बाह्यःसंसारः पुरुषस्य यदाश्रयः ।
2
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः ॥९२॥
Śloka 91
All Ślokas
Śloka 93
Commentary
व्याख्या
Expand all
1
संसारो द्विविधः वाह्यः आन्तरश्चेति —
2
तत्र आन्तरः सुखदुःखकर्तृत्व-भोक्तृत्वादिः —
3
वाह्यः जन्मजरामरण-स्थौल्यबाल्यादिः —
4
उत्तरश्लोके निरूपयिष्यते वाह्यः —
5
सर्वोपि संसारः असंसारिणः पुरुषस्य यदाश्रयः यत्र तादात्म्याध्यासनिबन्धनं —
6
तत् इदं स्थूलदेहं गृहमेधिनः गृहस्थिमणा कुटुम्बन इति यावत् गृहवत् सदनवत् विद्धि जानीहि —
7
प्रसिद्धं खलु लोके एकं गृहमाश्रित्य वर्तमानः कलत्रादिक-मर्जयति —
8
न हि गृहस्याप्यभावे विद्यते प्रवतेते किञ्चत् —
9
तथा स्थूलदेहे आत्मत्वेन मत्वान एव तदीयधर्मानि जरामरणादीन् स्वकीयान्मनुते दुःखमनुभवति च नान्यथा —
10
न हि सुषुप्तो स्थूलदेहाभिमानशून्यस्य जरारोगादिपीड्येत भावः —
11
अतः गृहवदत्यन्तभिन्नत्वेन ज्ञेये अहंता न युक्तेति भावः ॥९२॥
Śloka 91
All Ślokas
Śloka 93