विवेकचूडामणि
Śloka 93
Glossary
View Book
Verse
श्लोकः
Expand all
1
स्थूलस्य संभवजरामरणानि धर्माः स्थौल्यादयो बहुविधाः शिशुतादवस्थाः ।
2
वर्णाश्रमादि-नियमा बहुधामयाः स्युः पूजावमान-बहुमानमुखा विशेषाः ॥९३॥
Śloka 92
All Ślokas
Śloka 94
Commentary
व्याख्या
Expand all
1
संभवः उत्पत्तिः, जरा वार्धक्यं, मरणं मृतिः —
2
स्थौल्यं अवयवोपचयः, आदिपदेन तदपचयरूपकार्श्यं शौक्ल्यकाष्ण्यादिवर्णाः बहुविधाः —
3
बहवः विधाः येषां ते धर्माः बहुविधाः —
4
शिशुता आदिः यासां कुमारता युवता वृद्धतानां ताः अवस्थाः —
5
यद्यपि जराशब्देन पूर्वं वृद्धता अगाहि, अथाप्यत्र शिशुतादवस्थामध्ये पुनर्ग्रहणे न दोषः —
6
वर्णाश्रमादिनियमाः — वर्णाः ब्राह्मणत्व-क्षत्रियत्व-विट्त्व-शूद्रत्वानि, आश्रमाः ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थत्व-संन्यासाः, आदिपदेन गोत्रसूत्रादयः —
7
तेषां नियमाः, ब्राह्मणत्व-ब्रह्मचयादियुचित-धर्माः, कुलाचाराराश्च —
8
बहुधा आमयाः ज्वरशिरोवेदनाप्रभृतयः —
9
पूजावमान-बहुमानमुखाः विशेषाश्च स्युः —
10
पूजा गन्धपुष्पादिकृता, अवमानः वाचाप्यनादरणादिरूप-तिरस्कारः अक्षपाप्यनीक्षणादिश्च —
11
बहुमानः उच्चासनोपवेशनादिः —
12
जातकर्मादि-संस्काराणां शरीरस्यैव क्रियमाणत्वात् तत्तदाश्रमचिह्नानां च शरीर एव उपलभ्यमानत्वात् वर्णाश्रमादिनियमाः स्थूलस्य शरीरस्य इत्युक्तम् —
13
यद्यप्यन्तरा नियमाः संत्येव अन्तरंगस्य अथापि प्रत्यक्षानियमा आश्येत्यभिप्रायः —
14
तावद्विक्रमाः शरीरसंस्कारद्वारा चित्तं संस्कुर्वन्ति। तद्वारा ज्ञानोपयोगिलं भजन्त इति अध्यासेनापि ते नियत-मादतेव्याः —
15
इतरे धर्माः वंशकत्वात् पूजावमानादयः नादतेव्या इति भावः ॥९३॥
Śloka 92
All Ślokas
Śloka 94